Lakshmi Namavaii Stotram in Hindi PDF

॥ श्रीलक्ष्मीनामावलीस्तोत्रम् ॥

ब्राह्मी नारायणी श्रीश्चाक्षरी मुक्तानिता रमा ।
ब्रह्म्प्रिया च कमला हरिप्रिया च माणिकी ॥ १॥

राधा लक्ष्मीः पराविद्या रमा श्रीः च नारायणी ।
विद्या सरस्वती माता वैष्णवी पद्मिनि सती ॥ २॥

पद्मा च पद्मजा चाब्धिपुत्री रम्भा च राधिका ।
भूर्लीला सुखदालक्ष्मीः हरिणी माधवीश्वरि ॥ ३॥

गौरी कार्ष्णी कृष्णनारायणी स्वाहा स्वधा रतिः ।
सम्पत्स्मृध्दिर्वासुदेवी विरजा च हिरण्मयी ।
भार्गवी शिवराज्ञी श्रीरामा श्रीकान्तवल्लभा ॥ ४॥

॥ फल श्रुति ॥

ऐतानि लक्ष्मीनामानि सदा प्रातः पठेध्दियः ।
स पुत्रपौत्रादियुक्तः श्रियमाप्नोत्यनाशिनीम् ॥ १ ॥

॥ श्रीलक्ष्मीनारायणसंहितायां श्रीलक्ष्मीनामावलीस्तोत्रम् ॥

Visited 665 times, 1 visit(s) today